पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०६
परात्रिंशिका

भासविकल्पपूर्वभाग्यपि न भवति, यथा नीलै- कसाक्षात्कारि ज्ञानम् , भवति च इदमस्तमि- तोदेष्यदुभयविकल्पज्ञानान्तरालवर्ति उन्मेषप्र- तिभादि, शब्दागमगीतं निर्विकल्पकं ससं- वादविरुद्धाभिमतनीलादिविकल्पपूर्वभावि त- स्मात्तदनन्तावभासाविभागमयमेवेति उभ- योश्च ज्ञानयोरन्तरालमनपह्नवनीयं - ज्ञानयोर्भे- दादेव, तच्च संविदात्मकमेव, अन्यथा तेनैव संविसंस्कारोच्छेदे स्मरणाद्यनुसंधानाद्ययोग इति प्रतिभाख्यस्य धर्मिणः सर्ववादिनः प्रति


१ शब्दागमः-प्रक्रियाशास्त्रम् । २ संस्कारोच्छेद इति, नवनवाभासाः प्रतिक्षणमुदयव्ययभाज इति व्यवहारहानिः, ततश्च कस्मिंश्चिदर्थे पूर्वगृहीते यत्संवेदनं पूर्वं बहिर्मुखम- भूत् तस्यान्तर्मुखं यत् चित्स्वरूपत्वं तत्कालान्तरेऽपि अवस्थासु स्वात्मगतं तद्विषयविशेपे बहिर्मुखत्वं परामृशतीति स्मरणशक्तिः । तथानुसंधान- मेकविषयभावोपपन्नस्मृतिताप्राप्तिरूपम् ।


पं. ४ क• पु० शब्दागमनिर्णीतनिर्विकल्पकसंवादेति पाठः ।

पं. ९ख० पु. संसारोच्छेद इति पाठः ।