पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

अविवाद एव इति न असिद्धिः, संकेत- व्युत्पत्तिकालानवलम्बनात् च अस्य अविकल्प- त्वमेव सहजासामयिकतथापरामर्शयोगो हि जंडविलक्षणसंविद्रूपनान्तरीयको न विकल्पतु- ल्यत्वं-भेदानुल्लासात् , भेदसारतालब्धतया तु अर्थभावं कुर्यात् , विकल्पानां च अविकल्पं विना नोदयः-अस्वातन्त्र्यात् , अस्वातन्यं च


१ उक्तं हि सूत्रविमर्शिन्यामनेनैव 'विना येन न किंचित्स्यात्समस्ता अपि दृष्टयः । अनस्तमितसंबोधस्वरूपं तं स्तुमः शिवम् ॥' इति । २ ननु च विशुद्धसंवेदनरूपे भगवति कथं परामर्शो विकल्पतुल्यः स्यात् ? इत्यत आह -जडेत्यादि । उक्तंच 'स्वभावमवभासस्य विमर्शं विदुरन्यथा । प्रकाशोऽर्थोपरक्तोऽपि स्फटिकादिजडोपमः॥' इति । न च वाच्यं कथं तथापि तद्विकल्परूपं न स्यात् इति न विकल्प- तुल्यत्वं- भेदानुल्लासादिति । तथा चोक्तं 'अहं प्रत्यवमर्शो यः प्रकाशात्मापि वाग्वपुः । नासौ विकल्पः स शुक्तो द्वयाक्षेपी विनिश्चयः ॥' इति


पं०३ ख० पु० सामयिकतया परामर्शेति पाठः । पं. ४ क. ग. पु० विकल्पत्वमिति पाठः ।

पं० ५ क. पु. सारतालभ्येति, ख. पु. तया त्वयेति च पाठः ।