पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०८
परात्रिंशिका

संकेतादिस्मरणोपायत्वात् , संकेतादिस्मरणं च तथा अनुभवं विना कुतः, संविदश्च प्राङ्न्या- येन कालादिपरिच्छेदाभावः, इति एकैव सा पारमेश्वरी प्रतिभा अस्मदुक्तिमाहात्म्यकल्पिता एवंविधा अपरिच्छिन्नस्वभावापि सर्वात्मैव, म- ध्येऽपि वर्तमानभूतभविष्यद्रूपविकल्पान्तरप्रस- वभूरेव, तथा च विवेककुशलैरालयविज्ञानमेव-


१ तथा चेति, इत्थं तन्मतं -यदि हि ज्ञानादर्थः पृथगवभासितात्मा भवेत् ज्ञानमन्तरेणापि असावुपलभ्येत? न चैवमस्ति, तस्मादभेद एवं ज्ञानार्थयोरिति । यदाहुः

'सहोपलम्भनियमादभेदो नीलतद्धियोः ।'

इति । तस्माज्ज्ञानमेव सर्वत्र तथा तथा प्रतिभाति न तद्वयतिरिक्तो नाम कश्चिदिति, ज्ञान एव च एकत्रायं प्रमेयप्रमाणप्रमितिव्यवहारः समाप्यते, इति, तस्य हि विषयाकारता प्रमेयं, ग्राहकाकारणता प्रमाणं, स्वसंवित्तिश्च फलमिति । यथोक्तं

'यदाभासं प्रमेयं तत्प्रमाणं फलते पुनः ।
ग्राहकाकारसंवित्योस्त्रयं नातः पृथक्कृतम् ॥

इति । तदिदमनायविद्यावासनाविलासविपर्यासिततत्त्वदर्शनतया ज्ञान- मेव ग्राह्यग्राहकसंवित्तिभेदवदिव लक्ष्यते, अविद्याविरतो तु स्वच्छमेवैतत् संपद्यते न किंचिद्वेति । तदुक्तं


पं. ४ स्व. पु. पारमेश्वर्येति पाठः ।

पं० ५ ख० पु. एवंविधपरीति पाठः ।