पृष्ठम्:श्रीपरात्रिंशिका.pdf/१३९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१०९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

मेवोपगतं ससंवादत्वं च तदनन्तरभाविनां विकल्पानां दर्शितमेव - इति नासिद्धो हेतुः साध्यधर्मिणि, न च एकावभासिविकल्पसंवि- भागकारिणि अविकल्पके विपक्षे सदा वा क- दाचिदपि वा वर्तते, न च ततोऽस्य व्यावृत्तिः संदिग्धा-इति न विरुद्धो नानैकान्तिको न


'नान्योऽनुभावो बुद्ध्यास्तु तस्यानानुभवः परः ।
ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते ॥

इति । तथा

अविभागोऽपि बुद्ध्यात्मा विपर्यासितदर्शनैः ।
ग्राह्यग्रहकसंवित्तिभेदवानिव लक्ष्यते ।।

इत्यर्थरूपरहितं संविन्मानं किलेदमिति पश्यत् ।
परिहत्य दुःखसन्ततिमभयं निर्वाणमामोति ॥'

इति सौगतमतम् । यत् वेद्यते येन वेदनेन तत् ततो न भिद्यते, यथा- आत्मा ज्ञानस्य,वेद्यन्ते नीलादयः, भेदे हि ज्ञानेनास्य वेद्यत्वं न स्यान्-तादा- स्म्यस्य नियमहेतोरभावात् , अन्येनान्यस्य असंबद्धस्य वेद्यत्वेऽतिप्रसंग इति भेदे नियमहेतोः संबन्धस्य व्यापकस्यानुपलब्ध्या भेदाद्विपक्षाद्व्या- वर्तमानं वेद्यत्वमभेदेन व्याप्यते इति । यच्चायं ग्राह्यग्राहकसंवित्तीनां पृथ- गवभासः स एकास्मिश्चन्द्रमसि द्वित्वावभास इव भ्रमः । यथोक्तं

भेदश्चाभ्रान्तिविज्ञाने दृश्येतेन्दाविव द्वयः ।'

इति ।