पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
११०
परात्रिंशिका

संदिग्धविपक्षव्यावृत्तिः, दृष्टान्तधर्मणि अपि चित्रज्ञानादौ हेतोरेवमेवासिद्धतादिदोषाः परि- हृता भवन्त्येव, हेतुदोषेषु तु परिहृतेषु दृष्टा- न्तादिदोषा निरवकाशा एव, इत्यादि बहु निर्णीतकल्पमपरैरेव, इति किं तदनुभाषणक्ले- शेन । सिद्धं तावत् ह्येतत्

यत्प्रातिभं निखिलवैषयिकाचयोध-
 पूर्वापरान्तरचरं निखिलात्मकं तत् ।
तस्यां प्रलीनवपुषः परशक्तिशासि
 ग्लानिर्घटेतं किमनववशोपकप्ता ॥

१ यथा छिदिक्रिया छेद्येन संबध्यते भिद्यते च तथा ज्ञानक्रियापि ज्ञेयेन सह संभत्स्यते भेत्स्यते च - इति सहोपलम्भनियमस्यापि विपक्षा- द्यावृत्तिः संदिग्धेति पूर्वपक्षः । अन्न - ज्ञानस्वपरसंवेद्यतामात्रेणैव नील- तद्धियोर्युगपद्हणनियमस्योपपत्तेः बाह्याभावाज्ज्ञानं परस्य संवेदकं न भवति इत्युत्तरपक्षः। २ घटेत -विश्लेपमाप्नुयात् । ३ अभावेति- यथान्यैरुक्तम् 'अभाचं भावयेत्तावद्यावत्तन्मयतां प्रजेत् ।'

इति ।