पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१११
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

शरीरप्राणादौ परधनसुखास्वादपटल-
मनालोक्य स्वस्मिन्स्पृशति हृदये ग्लानिमसमाम् ।
प्रविष्टा चेदन्तर्निखलजगतीसूतिसरसा
परा देवी हन्त प्रविलसतु पूर्ण हविरिव ॥

 तदुक्तं स्पन्दे

'ग्लानिर्षिलुण्ठिका देहे तस्याश्चाज्ञानतः मृतिः ।
तदुन्मेषविलुप्तं चेत्कुतः सा स्यादहेतुका ।'

इति।

'एकचिन्तामसक्तस्य यतः स्यादपरोदयः ।
उन्मेषः स तु विज्ञेयः स्वयं तमुपलक्षयेत् ।।

'

इति च ।

मायीयकार्ममलमूलमुशन्ति तावद्
 अज्ञाननाममलमाणवमेव भद्राः ।
बीजं तदेव भवजीर्णतरोः परस्मिन्
 संविनिशातदहने दहते क्षणेन ॥

यथाहुः

'मलमज्ञानमिच्छन्ति संसाराङ्कुरकारणम् ।'

इति । तदेवोक्तम्