पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
११२
परात्रिंशिका

'तदुन्मेषविलुप्तं चेत् ......…।'

इति । एवमेव च व्याख्यातम् , अतोऽन्यथा ग्लानेः विलोपकत्वमस्याश्च अज्ञानात् सरणम् , अज्ञानस्य च उन्मेषेण विलोपः-इति किं केन संश्लिष्टम् , इति नृपनिरूपणप्रायमेव भवेत्

सइपरिउण्णपमरुउत्ताण
 उतहुगहिअबुणतज्जिअणिज्जइ ।
अजाणिअविहडइअञ्जाण

 उजम्पुसुअच्छइपूरिअकज्ज ॥

तदेवं भगवती परावाग्भूमिः गर्भीकृत स्वस्वातन्त्र्यसत्तोद्भविष्यत्पश्यन्त्यादिविनिविष्टपरापराभट्टारिकादिप्रसरात् तद्गर्भीकारवशाविवादघटितसकलभूतभुवनभावादिप्रपञ्चप्रबोधैक्यचमकारसारा परमेश्वरभैरवभट्टारकाविर्भावप्रथिततथाविधाद्भुतभूतपरमार्थस्वरूपा स्वात्मविमल-


पं० २ ख० पु० ब्याख्यातमदः इति पाठः।

पं० १० क० ख० पु० भूमिगर्भीकृतत्वात् खातच्येति, ग० पु० कृततस्वातष्योद्भविष्यदिति च पाठः ।

पं० ११ ख० पु० पशन्स्याद्युद्दिष्टपरेति पाठः, क० पु० परापरादि इति पाठः।