पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
११६
परात्रिंशिका

याभिरसौ तदैव भिन्नवेद्यवेदकीभावमुपाश्नुवीत, रागादिभिरेव च तथाविधत्वमस्येति रागादय एव आध्रियमानान् भावान् उक्तन्यायेन धारयन्तमीश्वरं प्रति प्रयोजकतां गच्छन्ति, अतस्तस्यैव पुंस्त्वव्यपदेशकारणैकभूता द्वितीये णिचि उत्पन्ने धारणशब्दवाच्याः, णिजुत्पत्तावपि सर्वत्रैव प्रकृत्यर्थान्वयानपायो ध्रियमाणतया प्रकाशमानस्यैव हि धार्यमाणता प्रकाशनासंज्ञा उपपद्यते यतः, यथोक्तं मयैव शिवहष्ट्यालोचने

'प्रेपोऽपि स भवेद्यस्य शक्तता नाम विद्यते ।'

इति । भर्तृहरिरपि

'अप्रवृत्तस्य हि प्रैपे प्रच्छादेर्लोड् विधीयते ।
प्रवृत्तस्य यदा प्रैषस्तदा स विषयो णिचः ॥'

इति । तदेवं धारणशब्देनापरशास्त्रेषु कञ्चुक-


पं० २ ख० पु० एव यत् तथात्वमप्येति इति पाठः ।

पं० ११ ख० पु० प्रेर्योपि इति पाठः ।