पृष्ठम्:श्रीपरात्रिंशिका.pdf/१४८

एतत् पृष्ठम् परिष्कृतम् अस्ति
११८
परात्रिंशिका

'मायोर्ध्वे शुद्धविद्याधः सन्ति विज्ञानकेवलाः ॥'

इति । तथाहि महामायाभावे मायापदे प्रलयकेवलानामवस्थितिः, विद्यापदे च विद्येश्वरादीनाम्-इति किमिव तत् विज्ञानकेवलास्पदं स्यात्, अत एव विद्यापदप्रच्युतानामपि एषां भेदमयभावराशिगतभिन्नवेद्यप्रथानुदयात् मायीयाभिधानमलानुल्लासे, तत्र विज्ञानकेवलो मलैकयुक्त इति अज्ञानात्मकाणवमलावलम्बित्वं श्रीपूर्वशास्त्रे कथितम् , त एव शुद्धविद्यापदा-


'स्वातच्यहानिर्बोधस्य स्वातच्यस्याप्यबोधता ।
द्विधाणवं मलमिदं स्वस्वरूपापहानितः ।।
शुद्धबोधात्मकत्वेऽपि येषां नोत्तमकर्तृता ।
निर्मिताः स्वात्मनो भिन्ना भर्त्रा ते कर्तृतात्ययात् ॥'

एते च विज्ञानकेवलाः

  'शून्याद्यबोधरूपास्तु कर्तारः प्रलयाकलाः'

इति ।


पं० ३ ख० पु० केवलिनामिति पाठः ।

पं० ख० पु० गताभिन्नेति पाठः ।

पं० ९ क० पु० लक्षितं तत एवेति पाठः ।