पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३०
परात्रिंशिका

ष्णुदेवतयोः वैखरीमध्यमापदे पत्योरीशसदा- शिक्रियाशक्तिपदमेव परा प्रतिष्ठाभूः, इति तावत् आगमसिद्धं स्वसंवेदनहितं च, तत् पश्यन्त्युपरि पराभूमिः भगवती-यत्र सर्वम- भेदेनैव भाति चं विमृश्यते च । यद्यपि हि विद्यापदे मायापदेऽपि अभेदेन भासना स्थि- तापि तत्र विमर्शोऽन्यथा, विद्यापदे हि इंदमिति प्रमातृप्रमेयजातमेकतोऽहमात्मनि संक्रामेत् , तदाच्छादितं विमृश्यते - 'अहमिदम्' इति, तत् एतत् समाने चिदात्मनि अंधिकरणे उभयं प्रतिविम्बितमभेदेनैव अवभासमानं सामाना- धिकरण्यमुक्तम् , अत एव ईश्वरावस्थायां परा-


१ ईश्वरतत्वस्यैव सदाशिव ।

२ सूक्ष्मबुद्धिविवेच्योऽत्र क्रमः ।

३ ईश्वरभट्टारके।

५ सदाशिवभट्टारके।

५ज्ञानशक्तिशिवे।

६ ज्ञानरूपशिवावस्थायाम् ।


पं०६ क. पु. भान मास्थितापीति, ग. पु. भानमस्ति तथापीति पाठः।