पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

हारकस्य तत्प्रसादासादितसत्ताकस्यापि तद- व्यतिरिक्तस्यापि वा पश्चात्तनस्य विमर्शस्य 'इदं शरीरादि, अहमहं, योऽसौ ज्ञाता, इदं घटादिकम् , इदं यत्तत् ज्ञेयम् इति भेदेनैव विमर्शरूपतया व्यवहारो विकल्पात्मैव, तत्र तु तथाविधत्वे कारणान्तरासंवेदनात्कल्प्यमानेऽपि च कारणे पुनरपि तथाविधवोधाविनिर्भागमा- त्रपर्यवसानात् तस्यैव अविकल्पसंविदात्मनः तथा सामर्थ्य, तथा सामर्थ्ययोगादेव च तद- नन्तवैचित्र्यात्मकत्वम् - इति ऐश्वर्यमनपायि सिद्ध्येत् , अस्यां च सत्तायामैश्वर्यमनपेतं-यतो वैर्खयात्मनि एवं मायीये वेद्येऽपि वा मध्यमा- मये धाम्नि भासनातिरेक्यपि संभाव्य एवं वि- मर्शः । अत्र तु परसंविदि यथैव भासा तथैव व्यवहारमयोऽपि विमर्शः, तेन -जल इव जलं ज्वालायामिव ज्वाला सर्वथा अभेदमया एव भावा भासन्ते, न तु प्रतिविम्बकल्पेनापि केवलं,

यावत् एषापि परमेश्वरी उपदेशाय निरूप्यते