भूतपराभट्टारिकारूपं तत् किमपि रूपं भवेत् ,
एतादृशधारारोहणाभावे च न किंचित् इदं
विजृम्भमाणं भासेत विजृम्भेत इति, न व्रजतु
अपूर्णता, मा प्रतिष्ठभावराशिरभेदकथा खण्ड्यताम्, मा निर्वाक्षीद्भैरवाश्रयता, भेदकलङ्कमुद्ववहतु नामधेयमात्रेण परत्वम्-इति वक्तुं युक्तम् ,
तत् एतदेव भवति संगच्छते च, यदि प्रथमतरं
सर्वचरमे एवमाभासा पतन्ती तत्रैव विमर्शे
नापि पदं बन्धयेत् , स हि चरमो भागः तथा
तावत् स्वात्मरूपं विभ्रत् तत्स्वात्मरूपनान्तरीयकतास्वीकृततदनन्तनिजपूर्वपूर्वतरादिभागान्तरो भासमानो विमृश्यमानश्च पूर्ण एव, तत्पूर्वोऽपि भागः तदुत्तरभागपृष्ठपातिवृत्तपूर्वपरिपूर्णभासासारविमर्शतादात्म्यात् तदुत्तररूपपरिपूर्णतामजहत् स्वयं च स्वरूपनान्तरीयकताहठकृष्टस्वपूर्वपूर्वतरादिभागान्तराभोगो भासमानो विमृश्यमानश्च तथैवाखण्डितः- इत्येवं
तत्पूर्वपूर्वगताभासा तत्तद्वित्रादिनिजनिजो-
पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६५
पुटमेतत् सुपुष्टितम्
१३५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता