एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
परात्रिंशिका
त्तरभागभासाविभागे लब्धभैरवभावस्वभावा- व्यभिचारानुरोधबलस्वीकृतस्वस्वपूर्वभागचम- कार एकैकमपि परं पूर्णा भवति यावत् स्वप्र- काशनिजभैरवाभिमतनिकटतरवर्ति रूपं, तदेव स्वेच्छाविश्रान्तिधाम वा भैरवाख्यं वपुः, स्वय- मेव तद्विमर्शकुशला भवत प्रसंख्यानपराः हृद- गिरि-तरुप्रभृत्युपाधिसंकोचेन रहिते तद्वत्यपि वा अरण्यानीप्रदेशे दूरादखण्डिता दृष्टिरेवमेव अखण्डिततामुपाश्नुवाना भैरवबोधानुप्रवेशं प्रति संप्रदायतामासादयेत
'निर्वृक्षगिरिभित्त्यादौ देशे दृष्टिं विनिक्षिपेत् ।' |
इत्यादि, अन्यथा भागशः पाते प्रथमभागात् आरभ्य यदि वा निरवयवमेव एतत् तत्क इव अपरसंवेदनेभ्योऽपूर्णाभिमतेभ्यो विशेषः, वि- शेषस्तु गर्भीकृतानन्तवैचित्र्यचमत्कारकृत इव अपूर्णसंविदन्तरेभ्यः पूर्णाभिमतसंवेदनस्य इति स्वयमेव जानन्तु सोपदेशाः पारमेश्वराः । परमेशशक्तिपातकिरणाविकसिते तु पशुजन-