पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

हृदयकुशेशये न अस्मदीयैर्वचनशतैरपि अति- तीक्ष्णाभिधेयसूचिभिरपि संभेदोऽथ विकासोऽथ वितरीतुं शक्यः, घटेऽपि एवमेव परिपूर्णो दृष्टि- पातः, तत्रापि हि अविकल्पा संवित् झगिति चरमभागे एव निपतति, ततस्तु क्रमात् विकल्पसंविद आयान्त्य आ चरमनिकटभागात् अ- न्तस्तरामन्तस्तमां च अनुप्रविशन्ति, इति किमन्येन । तदेवमेव इहापि शिवतत्त्वं सदा अविकल्पमेव विकल्पसूति स्वातत्र्यसरसमनादि सर्वादिभूतं सिद्धम् अत्र तावत् न विमतिः तत्तु परिपूर्ण तथा भवति यदि सर्वचरमा पार्थिवी- मेव भुवमधिशेते धरासंवित् हि तथा धरां वि- षयतयापि अभेदेनाभासयेत् विमृशेत् च यदि तत्स्वरूपसर्वस्वावभासविमर्शयोः व्याप्रियेत, स्वरूपसतत्त्वं च अस्याः परिपूर्णप्रसरतत्स्वात- व्यक्प्ताप्ररूढाभेदतत्पूर्वकैकरसभेदावभासत- द्वशोदितसंकुचच्चित् स्वातन्त्र्यसतामममायाग्रा-

कतद्वाह्यचक्राविभेदात्मकप्रधानतद्विकारधीत-