पृष्ठम्:श्रीपरात्रिंशिका.pdf/१६९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

नेनैव उपदेशयुक्तिनयेन प्रदेशमात्रमपि ब्राह्म णः सर्वरूपम् एकैकत्रापि च तत्त्वे षट्रिंशत्तत्त्व मयत्वं' शास्त्रेषु निरूपितम् । एवं च श्रीस्प न्दशास्त्रोपदेशो

'दिदृक्षयेव सर्वार्थान्यदा व्याप्यावतिष्ठते ।
तदा किं बहुनोक्तेन स्वयमेवावभोत्स्यते ॥'

इत्ययं हृदयंगमीकर्तव्यः, चरमेण पादेन तदे- वात्र सूचितमिति किमन्यत् , यच्च येन विना न भवति तत् तावत् स्वरूपं यथा शिंशपात्वं वृक्षस्य स्वरूपं, पारमेशस्वातन्त्र्यतिरोहितनिय तिविजृम्भायां यत्तु यावत् स्वरूपं न भवति तत्


१ अत्र शिंशपात्वं वृक्षादन्यत्र क्वचित् न हि वर्तते, यथा यत्र यन्त्र शिंशपावं तत्र तत्र वृक्षत्वमिति शिंशपात्वं वृक्षत्वं स्वरूपम् अन्न यतः शिशपारवं वृक्षेण विना न संभवति इति स्वरूपम् ननु च कथमन्यदन्यस्य स्वरूपं भवेत् नियतिविरोधात्? इत्यत आह परमेशस्वातन्त्र्येति , यत्तु यावत्स्वरूपं न भवति इति, तथाहि अत्र न हि यत्र यत्र वृक्षत्वं तत्र शिंशपात्वं वानीरादिवृक्षे तदभावादिति वृक्षत्वं शिंशपास्वस्वरूपं न भवतीति ।

पं० ७ क• पु० चरमपादे एतदेवेति, ग० पु. चरमेण चार्धेणेति पाठः ।