पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
परात्रिंशिका

तत्र हि निःस्वस्येव हस्ते द्रविणमसन्न क्वचि दपि स्यात्, भविष्यदपि वस्तु चरममपि प्रथ मप्रकाशे भासेतैव, केवलमेकरसतद्भेदसारस्फु टरूपापेक्षया भविष्यत्ता, तथाहि-भविष्यति कर्की हनिष्यत्यधर्मपरान् - इत्यादि यदि न प्रकाशितं तत् कथं पुराणेषु निबद्धम् , क्वचन सर्गे बभूव कर्की तथैव व्यधित - इति चेत् किं स एवासांवन्य एव वा, अन्यश्चेदप्रकाशोऽसौ, स एव चेत् कथं कालभेदः, अकालकलितश्चेत् कथमिव ? चित्त्वाद्विश्वरूपत्वात्-इति चेत् तर्हि अकालकलिते संविदात्मनि सततविश्वशक्त्य वियुक्ते स्वातळ्यवशसंकोचविकासावभासितसं हृतिसृष्टिमताविरूद्धैकरूपतदात्मकवपुषि पर-


१ ननु च परापरादिभेदः परादशायां कथमन्तर्भवेत् यदा हि भेद उद्भवति तदा पश्यन्त्यादिव्यपदेशः, अनुभवे पुनः कथं तत्र तद्व्यपदेशे इत्यत आह भविष्यदपीत्यादि, प्रथममिति भविष्यत्ताभावेऽपीत्यर्थः । २ असाविति भविष्यन् ।

३ अन्यश्चेदित्यस्मन्मतं - स्ववचनेन प्राप्तोऽसीत्यभिप्रायः ।