पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

मेश्वरेऽस्मजिह्वाग्रहृदयानपायिनिभैरवभट्टारके सर्वमस्ति -इत्यस्माभिरुपन्यस्यमानमेव मुक्त मन्दाक्षं कथं नाद्रियते विवृततरकण्ठमेव वा स्वयमेव न निर्णीय निरूप्यते, तस्मात् शिवत स्वमिदमनाद्यन्तं स्वयं प्रथमानं पूर्णतात्मकनि रपेक्षतामात्रसतत्त्वस्वातत्र्यसारमन्तःक्रोडीकृ त्यात्मतैकपरमार्थं तत्त्वजातं परसंविदि सततो दितत्वात् सर्वाविरोधित्वात् निखिलानुग्राहक त्वाच्च अवस्थाशब्दव्यपदेशासहिष्णौ यावदका लकलितमासीनं भैरवरूपमवतिष्ठते तावदेत च्छास्त्रसमुचितेनैव महासृष्टयादिरूपेण न तु मितसृष्टयादिक्रमेण - इति सिद्धम् , स एष एव संपुटेयोगे अस्मद्गुरूणां संप्रदायः-शुद्धपर- सत्तया सर्वस्यैव एकैकतत्त्वस्य निखिलस्य च तत्त्वौघस्य संपुटीकरणात् , वक्ष्यते चाप्येतत् 'पश्यन्तीदशायाश्चारभ्य भेदासूत्रणात्मांशांशो- हल्लासः' इति, ततः प्रभृत्येव शोध्यशोधकभाव


हेताविति शब्दः ।