पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४४
परात्रिंशिका

इति तावद्ध्यवस्थानपह्नवनीया, यथोक्तम्

'यत्सदाशिवपर्यन्तं पार्थिवायं च सुत्रते ।
तत्सर्वं प्राकृतं ज्ञेयं विनाशोत्पत्तिसंयुतम् ॥'

इत्यादि, पश्यन्ती च परापराभट्टारिकासतत्त्वा परशक्तेरेव स्वात्मशक्तिर्दर्पणकल्पा यत्र तत्परा भट्टारिकास्वरूपमेव चकास्ति - प्रतिबिम्बवत् , यच्च रूपं सदा विम्बे प्रतिविम्बे चैकतापरमार्थ मुखपरामर्शमात्रमिव न तत्प्रतिविम्बितमुच्य ते-तन्मात्रसतत्त्वादेव, यत्तु तत्रान्यथा तथा च भाति मुखाकार इव पूर्वापरवामदक्षिणतादिवि-


१ अत्र शोध्यशोधकभावतयारोहक्रम इत्यतः पार्थिवाद्यं सदाशिव पर्यन्तमित्युक्तम् । २ ननु च पराभट्टारिकायामपि भेदाभेदन्यायेन प्रतिबिम्बकल्पनम स्त्येव तदपि प्रतिबिम्बोक्त्यैव कथनीयमिति किं परापरायामेवोक्तिरीति. रित्यत आह-यच्चेति, तत्र हि बिम्बप्रतिबिम्बे एकमेव रूपमित्याशयः । ३ यथोक्तमनेनैवान्यत्र इदं हि प्रतिबिम्बस्य लक्षणं यद्भेदेन भासि तुमशक्तमन्यव्यामिश्रस्वेनैव भाति तत्प्रबिम्बमिति ।


पं. ८ व. पु. न तत्प्रतिबिम्बमुच्यते इति पाठः ।