पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

पर्ययात् एतदेवापि तदेवापि तदेव प्रतिविम्वित- मुच्यते तच्च तत्समानधर्मैव भवति, न तु विजा तीयम् , एवं च पश्यन्तीसतत्त्वपरापराविमलमु कुरिकायां तत्तत्तथाविधोक्तंक्रममपूर्णपृथिव्या दितत्त्वसामग्रीनिर्भरम् अन्तस्तथाविधसहजा कृत्रिमपारमार्थिकानपायिकादिपरामर्शकोडी कारेणैव वर्तमानमपि श्रीपराभट्टारिकावपुः प्रतिविम्बमर्पयत् स्वरूपान्यथात्वसहिष्णुकादि परामर्शानन्यथाभावेनैव तत्परैकरूपं परामृश्य धरण्यम्भःप्रभृति तथोल्लसद्भेदसूत्रणतया सजा तीयायां विमलायां च यावत्प्रतिविम्बयति ताव-


तदेवेति परतत्त्वं परापरशतावित्यर्थः । 'स्वरूपान पहानेन पररूपसदक्षताम् । प्रतिबिम्बात्मतामाहुः खङ्गादर्शतलादिवत् ॥' इति । अन्यव्यामिश्रणायोगात् तद्भदाशक्यभासनम् । प्रतिविम्बमिति प्राहुर्दपणे बदनं यथा ॥' इति प्रतिबिम्बसतत्त्वमन्यन्त्र । न देशो नो रूपमित्यादिनयोऽत्र बोद्धव्यः । २ कार्यकारणविवेकेन कैकन पदिशत्त्वमिति क्रमेण ।

19