पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
परात्रिंशिका

द्धरादितत्त्वानां विपर्यास एवोपजायते, यत् परसंविदि शक्तितत्त्वं तदेव परापरात्मनि पृथि वीतत्त्वं, यत्तु धरातत्त्वं तच्छक्तितत्त्वम्, इति क्षकारात् प्रभृति धरादीनां स्थितिः। भवद्भैर वभट्टारकस्तु सदापूर्णोऽनन्तस्वतन्त्र एव न विपर्यस्यते जातुचिदपि-चिद्रूपातिरेकाद्यभावात् इति उक्तं बहुशः। परात्मनि परामर्शे परामर्शे- कतत्त्वान्येव तत्त्वानि, परामर्शश्च कादि-क्षा न्तशाक्तरूपपरमार्थ इति, तत्र अभेद एव, परापरायां तु भेदाभेदात्मकता प्रतिविम्बन्या- येन, सा च परापरामर्शमयी कादि-क्षान्तवर्ण मालाशरीरा यावत्स्वो व्यवस्थितपराभट्टारिका निविष्टतत्त्वप्रतिबिम्बानि धारयति तावत् तेष्वे वामायीयाश्रौतकादि-क्षान्तपरमार्थपरामर्शेषु ऊर्ध्वाधरविपर्यासेन तत्त्वानि संपद्यन्ते, ऊर्ध्ववि-


१ स्वस्वरूपस्येति योज्यम् । २ ननु च यथा तन्त्रभेदेन क्षकारादौ द्वितत्वव्याप्तिर्न्यायसिद्धा तथा अवर्गेऽपि व्याप्तमित्यत आह भगवदित्यादि ।

३ तत्र हेतुः चिद्रूपातिरेकाद्यभावादित्यादि ।