पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

म्बाधरप्रतिबिम्बधामस्वभावमहिम्ना -इति ता त्पर्यम् , ततः पृथिवी 'क्षकार' इत्यादिशोध्य- रूपापेक्षया न किंचिद्विरुद्धम् , तत्रापि परदशा- नपायात् एष एव कादिवर्णसंतानः, तत्रैव च स्वांशोद्रेकात् स्वांशान्तर्वर्तिमध्यमापदोल्लासात् स्वरूपवर्तमानवैखरीरूपप्रावण्याच्च, वर्ण-मन्त्र पदरूपता शोध्यांशवृत्तिः -इत्यास्ताम्, प्रकृतमेतत्, निर्णीतं च मयैव श्रीपूर्वप्रभृति पञ्चिकासु, यद्यप्युक्तं श्रीमालिनीभट्टारिकानु सारेण 'अन्यथा चान्यथा स्थितिः' इति तदपि निर्णीय निरूप्यमाणं विमृशन्तु त्रिकोपदेशवि शीर्णाज्ञानग्रन्थयः पारमेश्वराः, अनाश्रितश- क्त्यात्मकपश्यन्तीपरमकोटिमतिक्रम्य 'पारमे श्वर्यां परसंविदि देवतास्तिस्त्र' इति यदुक्तं तत् तावन्न प्रस्मर्तुमर्हन्ति तत्रभवन्तः, एवं च परसं-


१ प्रावण्यादिति लग्नत्वात् । २ अनाश्रितस्य शक्तिस्वरूपा यासौ पश्यन्ती सैव परमकोटिः सर्व-

भावारम्भावस्था।