पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
परात्रिंशिका

विदन्तर्वर्तिनि मध्यमापदे परापराभट्टारिका विजृम्भास्पदे स्थितिर्विमृश्यते, मध्यमा ताव- त्स्वाधिकारपदे क्रियाशक्त्यात्मनि ऐश्वरे पदे स्फुटवेद्यप्रच्छादकवेदनरूपा वाच्ये वाचकं तत्रापि वाच्यमध्यस्यते, विश्वत्र वाच्ये विश्वा- त्मनि वाचकमपि यदि विश्वात्मैव तदेवं पर- म्पराच्छादनमिश्रीभावात्मनि निर्वहेत् अध्यासः न त्वन्यथा, नहि त्रिचतुरङ्गुलन्यूनतामात्रेऽपि पटः पटान्तराच्छादकः स्यात्, विश्वात्मकत्वं च परस्परस्वरूपव्यामिश्रतया स्यात्, वीजात्मनां स्वराणां वाचकत्वं योनिरूपाणां च व्यञ्जनानां वाच्यत्वं-क्रमेण शिवशक्त्यात्मकत्वात्

बीजमत्र शिवः शक्तियोनिरित्यभिधीयते ।

इति । तथा

'बीजयोन्यात्मका द्विधा बीजं स्वरा मताः ।
कादिभिश्च स्मृता योनिः………………..

इति श्रीपूर्वशास्त्रनिरूपणात् शिव एव हि प्रमा-


पं. ७ क• ग० पु. परस्पराच्छादनलोलीभावात्मा निर्वहेदिति पाठः ।

4