पृष्ठम्:श्रीपरात्रिंशिका.pdf/१७९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

तृभावमत्यजन् वाचकः स्यात् , प्रमेयांशावगा हिनी च शक्तिरेव वाच्या भेदेऽपि हि वाचकः प्रतिपाद्यप्रतिपादकोभयरूपप्रमातृस्वरूपावि च्छिन्न एव प्रथते, शिवात्मकस्वरवीजरूपा श्या नतैव शाक्तव्यञ्जनयोनिभावो-वीजादेव योनेः प्रसरणात्, इति-समनन्तरमेव निर्णेष्यामः, अत एव स्वरात्मकवीजव्यामिश्रीभावश्चेद्योनेः तत्समस्तफलप्रसवो हन्त निर्यत्नः - इत्यपवर्ग भोगावकृष्टपच्यावेव भवतः, बीजवर्णोऽपि स्वा त्मनि योनिवर्णोऽपि तथैव - इति किं कस्य भेदकम् - इति कथ्यमानं नास्मानाकुलयेत् , ये वयमेकां तावदनन्तचित्रतागर्भिणी तां संवि- दात्मिकां गिरं संगिरीमहे, मायीयेऽपि व्यवहा-


१ यथोक्तम्

  • न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्व शब्देन गम्यते ॥' तथा ’वाग्रूपता चेदुत्क्रामेदवबोधस्य शाश्वती । न प्रकाशः प्रकाशेत सा हि प्रत्यवमर्शिनी ॥'

इति ।