पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५०
परात्रिंशिका

रपदे लौकिकक्रमिकवर्णपदस्फुटतामयी एकप रामर्शस्वभावैव प्रत्यवमर्शकारिणी प्रकाशरूपा वाक्, अन्यैश्च एतत्प्रयत्नसाधितम्, इह च एतावदुपदेशधाराधिशयनशालिनामप्रयत्नत एव सिद्ध्यति इति नास्माभिरत्र वृथा वैयाकरणगुरु गृहगमनपूतशरीरताविष्क्रियामात्रफले निर्बन्धो विहितः, एवमेव नवात्मपिण्डप्रभृतिष्वपि माला मन्त्रेष्वपि च क्रमाक्रमपूर्वापरादिभेदचोद्यप्रति- विधानं सिद्धमेव, एवं भगवती मालिन्येव


१ ह्रीं न फ ह्रीं इति शक्तिमन्त्रः, ह्रीं-अ-क्ष- ह्रीमिति शक्तिमद्वाचकः,

न फ कोटिसमावेशभरिताखिलसृष्टये ।।'

इति बहुरूपगर्भे । 'न शिखा ऋ ऋ लृ लृ च शिरोमालाथ मस्तकम् । नेत्राणि चोर्वेऽधोऽन्ये ई घ्राणं मुद्रे णु णू श्रुती ॥ व कवर्ग इ आ वक्रदन्तजिह्वासु वाचि च । व-भ-याः कण्ठदक्षादिस्कन्धयोर्भुजयोर्ड-डौ ।। ठो हस्तयोझ जौ शाखा -टौ शूलकपालके । प हृत् छ-लौ स्तनौ क्षीरमास जीचो विसर्गयुक् ।। तत्परः कथितः प्राणः प-क्षावुदरनाभिगौ । म-श-ताः कटिगुरोरुयुग्मगा जानुनी तथा । ए-ऐकारी तथा जो तत्परौ चरणौ द-फौ ॥

इति न्यासः । कर्णयोरूर्वे णौ मुझे कर्णपाली संविवेशस्तन्त्र उ ऊ इति ।