पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५२
परात्रिंशिका

श्रोत्रं नादात्मकभावरूपं योन्यात्मामृ[१]ताप्यायकारिणि बीजचतुष्काप्यायभूमौ पतितं वृंहितत्वमवाप्य झटिति ग्रहणात्मकरससतत्त्वरसनामयत्वं प्रतिपद्य धरण्याकारगन्धविशेषीभूय तत्रैव स्पर्शकरणतां श्रित्वा एतावच्च शाक्तं यौनं धाम ईशानबीजेनाधिष्ठाय वागात्मनि करणशक्तौ प्रतिफलितं, ततोऽपि करणशक्तेरुन्मेषोर्ध्वाश्रयणबीजरूपतया बुद्धिरूपां शाक्तयोनिमधिशय्य पृथिव्यप्तेजोयोनिसमाविष्टं पश्यन्तीरूपानुमूर्त्या तु ग्रहणात्मकपाणिरूपायां तत्रैव बीजेषु प्रसृत्य चाक्षुष्यां भुवि तत्सामान्या शुद्धविद्या करणे तत्सर्वान्त्यकरणे च घ्राणे स्थित्वा ईशानबीजेनाक्रम्य श्रोत्रशक्तिमालम्ब्योन्मेषोर्ध्वबीजयोगेन आनन्देन्द्रिययोनिगं सदाशिवेश्वरशुद्धविद्यामयं भवति, इति सर्वाग्रमध्यान्तगामित्वेनापरिच्छिन्नमनन्तशक्ति शिवतत्त्वम् अत्रोक्तं भवति,



  1. 'आत्मन्येव च विश्रान्त्या तत्प्रोक्तममृतात्मकम् ।' इति चोक्तमन्यत्र ।