पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

मालिन्यामिहत्यापरसंविदनुसृत्या पश्यन्त्यात्मकसत्तानुसृत्या च क्रमेण वायुर्माया चेति, 'प-घ' सादाख्ये नभः 'ख-ला-च-ङ' ईश्वरः, इच्छैव शक्तिमयी शुद्धविद्या, अनुत्तर एव स्वतन्त्रोऽहंभावः 'अ' शिवाख्यो माया 'भ' शुद्धविद्या रागः स्पर्शश्च 'यः' कालः पायुरहंकृच्च 'ड' नियतिः हस्तौ मनश्च 'ढकारः' आनन्देन्द्रियं बुद्धिश्च 'ठः' पुमांश्च 'ञः' धीरूपं नियतिश्च 'जः' अहंकृतं नियतिरूपं च 'रः' मनः पादेन्द्रियं प्रकृतिश्च 'टः' श्रोत्रं मनो हस्तश्च 'प' त्वग्रसः कालश्च 'ध-ल' रसना आनन्दशक्तिः शैवी 'आ' घ्राणं विद्यातेजश्च 'स' वाग्विसर्गशक्तिश्च ‘अः' करौ ईशो जलं च 'ह' पायुर्माया वायुश्च 'ष' आनन्देन्द्रियं सादाख्यं पृथिवी 'च' 'क्ष' पादौ पुमान् शब्दश्च 'स' शब्दः कला नभश्च 'श' स्पर्शः बैन्धवी शिवशक्तिः 'अं' रूपं नासिका त्वक् च 'त' रसः शिवशक्तिः सात्त्वी 'ए' गन्धः

20