पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५४
परात्रिंशिका

सैव दीर्घः 'ऐ' नभः तथैव वायुतेजसी 'ओ' नेत्रे रसश्च 'औ' आपः अहंकृत् पायुश्च 'द' पृथिवी 'फ' अत्रैव च यथोक्तम् शरीरनिवेशः --- इत्येवं सर्वसर्वात्मकत्वं निर्व्यूढं भवेत्, पराभट्टारिकैव हि प्रोक्तनयेन पश्यन्त्यां प्रतिबिम्बं स्वकमर्पयमाणा तत्समका[१]लमेव स्वात्मतादात्म्यव्यवस्थितमध्यमधाम्नि भिन्नयोनितामश्नुवाना तत्तद्योनिबीजपरस्परसंभेदवैचित्र्यस्य आनन्त्यादसंख्येनैव प्रकारेण तत्तत्कुलपुरुषादिभेदेनापरिगणनभेदभागिनी मालिन्येव, यथोक्तम्

'अनन्तैः कुलदेहैस्तु कुलशक्तिभिरेव च ।
मालिनीं तु यजेद्देवीं परिवारितविग्रहाम् ॥'

इत्यनेनैव च क्रमेण बहिर्भुवनेषु तत्त्वेषु शारीरेषु च चक्रेषु अभ्यासपरो योगी तत्तत्सिद्धिभाक्


  1. पश्यन्त्यां प्रतिबिम्बार्पणकाल एव ।