पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५६
परात्रिंशिका

निवेशे अभिप्रायः, न च वर्णमन्त्रादिगुप्तिमात्रमेव फलं, तथा---श्रीवाजसनेयतन्त्रे वर्णान् यथोचितं निवेश्योक्तम्

' इत्येतन्मातृकाचक्रं दिव्यं विष्णुपदास्पदम् ।
ज्ञातं गुरुमुखात्सम्यक् पशोः पाशान्निकृन्तति ॥'

इति । तथा श्रीत्रिकहृदयेऽपि

'चक्रशूलाम्बुजादीनां प्राणिनां सरितां नृणाम् ।
आयुधानां च शक्तीनामन्यस्यापि च कस्यचित् ॥
यो निवेशस्तु वर्णानां तद्वीर्यं तत्र मन्त्रगम् ।
तेन गुप्तेन ते गुप्ताः शेषा वर्णास्तु केवलाः ॥'

इति । तथाहि - मन्त्राणामक्षरमात्रान्यथाभावेऽपि तेषा[१]मेव शास्त्रेष्वाणवशाक्तशाम्भवादिविभागेनान्यथात्वम् यथा मायाबीजस्य प्रणवस्य सर्वस्यामृतबीजस्य वैष्णव-शैव-वामादिशास्त्रेषु,

यथा वा चतुष्कलभट्टारकस्य कौलोत्तरादौ श्रीमदुच्छुष्मशास्त्रे च, अत्र च कुलपुरुषबहुभेदप्रकटनायामभियुक्तानामुपायो लिख्यते


  1. समानानामेव ।