पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५८
परात्रिंशिका

'अभिन्नयोनिमध्ये तु नादिफान्तं कलौ युगे ।'

इति, तदेवं भगवती पराभट्टारिका पदभेदशालिनी मध्यमया मुख्यया वृत्त्या भगवन्मालिनीरूपैव अनन्ता परिगणनप्रदर्शितवैश्वरूप्यस्वस्वरूपापीति, तत्रापि च तथैव स्वात्मनि सर्वात्मकत्वेनांशत्रयोद्रेकात् वर्ण-पद-मन्त्रात्मकत्वम्, एतच्च शोधनकरणभावेन इति मन्तव्यम्, पश्यन्त्यंशोल्लसन्तो हि पाशाः सूक्ष्मा एव शोध्या भवन्ति---अन्तर्लीनत्व एव पाशत्वात्, उदितोदितविजृम्भामयशाक्तप्रसरे तु मध्यमापदे शोधनकरणतैव अन्तर्लीनपटमलापसरणे बाह्यस्थूलमलस्येव तत्, पराभट्टारिकासंविदन्तर्गतं तु वैखरीपदं विमृश्यते न हि तत्रैव वैखर्या असंभवः, तथाहि --- बाला द्वित्रैर्वर्षैः यद्यपि स्फुटीभूतस्थानकरणाः भवन्ति तथापि एषां मासानुमासदिनानुदिनमेव वा हि उत्पत्तिरधिकाधिकरूपतामेति---इति तावत् स्थितम्, तत्र यदि मध्यमापदे तथाविधवैखरीप्रसरस्फुटीभविष्य-