पृष्ठम्:श्रीपरात्रिंशिका.pdf/१८९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

त्स्थानकरणाविभागवर्णांशस्फुरणं न स्यात् तदहर्जातस्य बालकस्य मासजातस्य संवत्सरजातस्य वा व्युत्पत्तौ न विशेषः स्यात्, मध्यमैव सा व्युत्पत्त्या विशिष्यते? इति चेत्, कथमिति चर्च्यतां तावत्---शृण्वन्नेव ताञ्शब्दान् पश्यंश्चार्थान् व्युत्पद्यते, वर्णांश्च श्रूयमाणानेव परामृशेत्, श्रूयन्ते च वैखरीमयाः, तेषु च असौ रूपी एव जात्यन्धवत्, तस्मात् अन्तर्मध्यमानिविष्टस्थानकरणादिमयी अस्त्येव वैखरी मूकेऽपि एवमेव, सर्वात्मकत्वं च संविदो भगवत्या एवोक्तम्, एवं च वैखरीपदमेव मध्यमाधामलब्धविजृम्भं स्वांशे परस्परवैचित्र्यप्रथात्मनि स्फुटवाच्यवाचकभावोल्लासे जाते तत्त्वजालमन्तःकृत्य यावदास्ते तावदपराभट्टारिका, तदन्तर्वर्तिमध्यमापदोल्लासे परापरा, पश्यन्त्युल्लासे च स्वरूपतो भगवती देवी च इति शोधकभावेन स्थितिः त्रैधमेवावतिष्ठते, शोधको हि विश्वात्मा विततरूपो, वैतत्यं चैवमेव भवतीत्युक्तम्, शो-