पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
परात्रिंशिका

धनं प्रति तु करणत्वं कर्तुरेव स्वस्वातन्त्र्यगृहीतसंकोचस्य शाक्तमहिमविश्रान्तस्य भगवतः, शोध्यता तु संकोचैकरूपस्य सप्तत्रिंशातिक्रान्तत्रिकैकरूपभैरवभट्टारकाविनिर्भक्तपराभट्टारिकातुल्यकक्ष्यपरापरादेवताक्षोभात्मकसदाशिवज्ञानशक्तिविस्फारितपशुशक्तिरूपपश्यन्तीधामप्रथमा[१]सूत्रितभेदात्मनो नरात्मनः पाशजालस्य, इति निर्णयः । यथोक्तं श्रीसोमानन्दपादैः शिवदृष्टौ

'अस्मद्रूपसमाविष्टः स्वात्मनात्मनिवारणे ।
शिवः करोतु परया नमः शक्त्या ततात्मने ॥'

इति सर्वक्रियाकलापे एवंरूपतासूचकं शिव-


  1. अयमत्र तात्पर्यार्थः
     'स्वातन्त्र्यहानिर्बोधस्य स्वातन्त्र्यस्याप्यबोधता ।
     द्विधाणवं मलमिदं स्वस्वरूपापहानितः ॥
     भिन्नवेद्यप्रथात्रैव मायाख्यं जन्मभोगदम् ।
     कर्तर्यबोधे कार्मे तु मायाशक्त्यैव तन्त्रयम् ॥'
    इति पाशसमूहः स्थूलः, ऊर्ध्वमपि पाशजालं सूक्ष्मरूपेणास्तीति प्रथमासूत्रितेत्युक्तम् ।