पृष्ठम्:श्रीपरात्रिंशिका.pdf/१९७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
श्रीमदभिनवगुप्ताचार्यकृतब्याख्योपेता

सर्वथैव सक्रमत्वात्, तथा च सर्व एवायं वाग्रूपः परामर्शः क्रमिक एव, अन्तःसंवित्मयस्त्वक्रम एव-इति सदैवेयमेवंविधैव एवमेव विचित्रा पारमेश्वरी पराभट्टारिका, ततस्तत्क्र्मानुसारेण अत् इत्यादिव्यपदेशः, एवं परमेश्वरस्य स्वात्मनि इच्छात्मिका स्वातन्त्र्यशक्तिरनुन्मीलितभावविकासा तथाविधान्तर्घनसंवित्स्वभावविमर्शसारा 'अ' इत्युच्यते । सा चावस्थानेन इच्छेति व्यपदेश्या इष्यमाणानुद्रेका, तत एवानुत्तरसत्तापरामर्शात्मिकैव एषा, परमेश्वरः सततं स्वस्वरूपामर्शकोऽकुलशक्तिपदात्मकमपि रूपमामृशन् यद्यपि कुलशक्तीरनुयातु तथापि कुलपरामर्शतोऽस्य स्यादेव विशेषः - इति भैर-


यदुक्तं महार्थमञ्जर्याम् 'सन्निति हृदयप्रकाशो भवनक्रियाया भवति कर्ता । सैव क्रियाविमर्शः....................…॥ इति ।

पं०५ क० ग• पु० आदित्वादिव्यपदेश इति पाठः । पं० ९क० ग. पु. इष्यमाणाद्यनुदेकात् तत इति पाठः ।