पृष्ठम्:श्रीपरात्रिंशिका.pdf/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
परात्रिंशिका

रपि प्रसराप्रसरान्तरादिरूपत्वं, तयोरपि प्रसराप्रसरयोरिच्छाज्ञानप्रसराप्रसरान्तरादिपरिकल्पनाप्रसङ्गात्' इति वाच्यम् उपसंहरत बाह्यविभ्रमभ्रमभ्रमणं तावत्, अनुप्रविशत सूक्ष्मां विमर्शपदवीम् , यावद्धि घटादावपि विज्ञानं जायते तावदेव ज्ञेयघटाद्यंशकर्बुरीकृतस्वयंप्रथं ज्ञानं प्रथत एव, तत्रापि च तद्रूपकर्बुरीभावघटादिप्रथमसूक्ष्मोल्लासोऽपि संवेद्यः - एकभावोद्गमस्य अन्यतः कुतश्चिदभावस्य प्रथमानत्वात् , संविद एव स्वातन्त्र्यं भावोज्जिगमिषात्मकमीशनं स्वसंवित्प्रमाणलब्धमेव, तद्भावानुचयरूपा संविद्धना परिपूर्णा स्वातन्त्र्यसत्तापि संवेद्या, स्वात्मन्यानन्दघनो भवंस्तथा स्वतन्त्रः स्यात्-इत्यानन्दोऽपि नापह्नवनीयः, अनुत्तरश्च शक्तिमानव्यपदेश्यपरचमत्कारसारो भैरवभट्टारकः सर्वत्र कर्तृत्वेन भासत एव, तत्रापि त्वनुत्तरानन्देच्छेशनोन्मेषणे न त्वनिमेषाणां स्वरू-

पं. ५ क. ग. पु. घटादावपि झानं न जायते तावत् ज्ञेयेति पाठः ।

पं० १७ ग. पु. नन्देच्छेशनोन्मेषो न त्वनिमिषाणामिति पाठः ।