पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

पविमर्शे, तेषां विच्छेदविचारणेन ज्ञानभूमि मधिशयानानां ता एव भगवत्यः संविच्छक्तयः समापतन्त्यनन्या एव स्वयं संविदः- परिपूर्ण त्वेनाभेदात् , संवेद्योपाधेश्च भेदकत्वात् - तस्य देहसंवेद्यमात्रतयैव भावात् , अत एव श्रीतन्त्र सारे 'निजोत्तमाङ्गच्छायातत्त्वम् ' इत्युक्तम्

'स्वपदा स्वशिर छायां यदल्लवितुमीहते ।
पादोद्देशे शिरो न स्यात्तथेयं वैन्दवी कलां ।।

इति । तदेवं षट्कं प्रवृत्तं ज्ञानशक्त्यन्तम् । क्रिया शक्तिस्तु प्रसरन्ती विचार्यते -इच्छाज्ञाने एव

१ अयमर्थः-स्वशिरश्छाया यथोत्तरोत्तरगामित्वात् स्वपादाक्रमणं न सहते तथा ज्ञानशक्तिः, इयमपि नोत्तरोत्तरगामित्वात् ज्ञेयाद्यपेक्षा सहते । यो हि इत्थं मन्यते ज्ञेयादिसापेक्षं ज्ञानशक्तिस्वरूपमिति तदत्र स्वप्रकाशत्वादस्याः कथमीदशी विडम्बनेति स्वानुभवशून्यानामनवसरेऽपि महती खलु भ्रान्तिः । यदुक्तं 'भ्रान्तेर्महती शक्तिर्न विवेक्तुं शक्यते नाम ।' इति, ज्ञेयादिसत्तायां स्थूलदृश्वनां स्फुट ज्ञानशक्तेराविर्भावः, ज्ञेयाद्य- भावेऽपि सूक्ष्मदर्शिनामस्त्येव स्वप्रकाशत्वेन ज्ञानादिशक्त्याविर्भाव इति तात्पर्यम् ।