पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
परात्रिंशिका

परस्परस्वरूपसांकर्यवैचित्र्यचमत्कारमयपूर्वापरी भूतस्वरूपपरिग्रहे संरम्भसारा क्रियां, तत्र यद्यदन्यव्यामिश्रितसांकर्यमन्यसंवन्धादति तत्त्दनमर्शनियशून्यप्रायस्वरूपाक्रमणपुरःसरी कारेण तथा भवति-प्लवानामिव भेकादिः, तत्रानुत्तरानन्दात्मकं वपुर्न व्यपसरति-अव्यप देशरूपत्वात्, सर्वज्ञानेषु सर्वाधारवृत्तित्वेन पर्यव-

१ पूर्वीपरीभूताचयवरूपा हि किया । उक्तं च हरिणा 'यावसिद्धमसिद्धं वा साध्यत्वेनाभिधीयते । आश्रितक्रमरूपस्वात् सा क्रियेत्यभिधीयते ॥ इति । तथा 'गुणभूतैरवयवैः समूहः क्रमजन्मनाम् । बुद्ध्या प्रकल्पितो भेदः क्रियेति व्यपदिश्यते ॥ इत्यत्र च पूर्वापरत्वं परस्परसांकर्येणैवेति । २ असर्वज्ञानत्वं चेत्थम् 'परं ब्रह्म क्षुद्रं तव नियतमानन्दकणिका ।' इति । तथा 'परं ज्ञानं कथं देव' इति प्रश्ने . शत्या गर्भान्तर्वतिन्या शक्तिगर्भ परं महः ।'

इत्युत्तरं दत्तम् । गीतायामपि