पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

स्यति-पर्यन्तभित्तिरूपत्वात् , अपि तु क्रमस हिष्णुत्वात् संरम्भेच्छैवेशनान्ता स्वात्मनि अनु त्तरानन्दपदे च प्रसरणक्षमा, ततः सैव शून्या त्मकं स्वं वपुरवगाहमाना भास्वरं रूपं तेजो मयमिव प्रथमं गाहते 'ऋ-ऋ' इत्यत्रहि 'इ ई' इत्यनुगमो भास्वररुप्-रफेश्रुत्यनुगमश्च कथमपढ्यताम्, यथाह भगवान्पुष्पदन्तः

'रश्रुतिसामान्याद्वा सिद्धम्'

इति । शून्ये हि निश्चले रूपे अनुप्रविविक्षायां भास्वररूपसंवित्तिसोपानाक्रमणं स्थितमेव, ततो निश्चलरूपानुप्रवेशात् पार्थिवरूपसतत्त्वनिश्चल तात्मक-लकार-श्रुत्यनुगमे 'ऌ-ॡ.' इति, तथा च पर्यन्ते ईशनरूपतैव समग्रभावात्मस्वरूपो ल्लङ्घनेन दीर्घतरं प्लुत्वा निश्चलां शून्यां सत्ता-

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः। अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥' इति ।

१ एतदेव योगिनिदर्शनेन स्फुटयति शून्ये हीत्यादि ।