पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७४
परात्रिंशिका

मेतीति प्लुतत्वमेति 'लुवर्णस्य दीर्घा न सन्ति' इति न्यायात्, अवर्णादीनां तु दीर्घस्यैव दी घेतरता प्लुतत्वं, तच्च प्राङ्नीत्या दीर्घत्वमेव पृथ- गपर्येषणीयम् इत्यास्तां तावत्, एतच्चतुष्कं शून्यरूपतानुप्रवेशात् दग्धवीजमिव षण्ठरूपं भण्यते न तु सर्वथा बीजरूपत्वाभावात्, बीजयोन्यात्मकशिवशक्त्युभयातिरेकिणः कस्य चिदप्यभावात्, श्रीपूर्वादिशास्त्रेषु चानभिधानात् लौकिकसुखादिषु चैवंविधैव विश्रान्तिरानन्द रूपेति, तदेवामृतवीजचतुष्कमित्युक्तम् , तदेव मिच्छेशनं चानन्दवपुषि अनुत्तरपरधामनि च प्राग्भाविनि स्वरूपादप्रच्याविनि अनुप्रविश्य 'अ आ इ ई' इति च, न तु विपर्यये, यथोक्तम् 'अवर्ण इवणे ए' इति, अनुप्रवेशे चानुत्तरप-

, आनन्दो ब्रह्मणो रूपमित्यादिनीत्येत्यर्थः । २ यदि हि बीजत्वं न स्यात् एषां तदा तृतीयस्य कस्यचिद्यपदेशः स्यात् । क्षुभ्यति क्षोभयत्यपीति बीजरवं तत्रैवपि क्षोभोऽस्त्येव क्षोभणा तु नास्तीति सर्वथा बीजवाभाव इत्यर्थः ।

३ तदभावश्च कथमित्यत आह पूर्वादीति ।