पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

दानुप्रवेशे स्यादपि कश्चिद्विशेषः, आनन्दप दानुप्रवेशे हि स्फुटता, अनुत्तरधामसंभेदे तु सूक्ष्मता तदपेक्षया, तथाहि भगवान् भुजग विभुरादिशत्

'छन्दोगानां सात्यमुनिराणायनीया
अर्धमेकारमर्धमोकारं चाधीयते ।'

इति।लोकेऽपि प्राकृतदेशभाषादौ स्फुट एव

प्र्चुरो निवेशः, पारमेश्वरेष्वपि एकारौकारयोरैका

रौकारापेक्षया यत् ह्रस्वत्वमङ्गवक्त्रादिविनियोगे दृश्यते तदेवमेव मन्तव्यम् - अय एकार, अव ओकाराभिप्रायेणैवम् – 'ए ओ' इति वीज स्थितम्, एतदपि तथा शवलीभूतं संविद्वपुः तथैव च तदेव रूपमनवसत् 'अ आ ए' इति 'ऐ' एवमुन्मेषेऽपि वाच्यम् – 'अ आ उ ऊ' इति ओ 'अ आ ओ' इति 'औ' केवलमु न्मेषो ज्ञानशक्त्यात्मा प्रसरन् यद्यपि शून्यता वगाहनं कुर्यात् तथापि अस्येशनेच्छात्मकोभय रूपप्रवेश एव शून्यता, इच्छेशनयोस्तु स्वपरि-