पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


निर्माणेन विस्मृजति स एव परमेश्वरः प्रथम शक्तिमद्रूपप्रधानतया, इदानीं तु शाक्तविसर्ग- प्रधानतया 'अः' इति, औकारपर्यन्ते हि निर्भ रीभूते क्रियाशक्तिप्रसरे एतावदनुप्रविष्टम नुत्तरपदस्य भैरवभट्टारकस्य स्वरूपसतत्त्वस्य इच्छा-ज्ञान-क्रियात्मकशक्तिपरिस्पन्दादिमध्या न्तभागाः उल्लिलसिपा-उल्लसत्ता-उल्लसिततास्व भावाः सूक्ष्मतमप्रसंख्यानगृहीततावद्भूमिका धिरूढयोगिजनस्फुटलक्षणीयाः श्रीस्वच्छन्दा दिप्रक्रियाशास्त्रेषु प्रबुद्धप्रसरणावरणादिरूपत्वे नोक्ताः अत एव शिवदृष्टिशास्त्रे सप्तमाह्निके

इच्छाज्ञानक्रियाशक्तिनामकं त्रितयं खलु । परमेश्वरस्वातच्यख्यापकं कथितं परे । इच्छाशक्ताविष्यमाणं विश्वं जातं यदैव हि । ज्ञानशक्तिरभिव्यक्तिकारणं तस्य महे ॥ क्रियाशक्तिर्बाह्यरूपपरिस्फुरणकारणम् । एकमेव हि स्वातन्यमादिमध्यान्तभेदभाक् ।। तेन नैषां पृथङ्नाम कदाचिदपि लभ्यते ।' तत्र स्फुटप्रतीत्यर्थं यथा मूल एव उल्लिलसिपेत्यादि । २ प्रसंख्यानं समाधिः । ३ प्रबुद्धेति इच्छा, प्रसरणेति ज्ञानं, आवरणेति किया । 9 1

23