पृष्ठम्:श्रीपरात्रिंशिका.pdf/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७९
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

सुमूक्ष्मशक्तित्रितयसामरस्येन वर्तते ।
चिद्रूपाह्लादपरमो निर्विभागः परः सदा ॥'

इति । तथा घटम्

'घटादिग्रहकालेऽपि घटं जानाति यावसा ।
जानाति ज्ञानमत्रैव[१] निरिच्छोर्वेदनक्षतिः॥
औन्मु[२]ख्याभावतस्तस्य निवृत्तिर्निर्वृतिं वि[३]ना ।
द्वेष्ये प्रवर्तते नैव न च वेत्ति विना चितिम् ॥'

इति । तथा


प्रकाशनं न तु बाह्ये तत एव तत्रैव लयो यस्य स तथा, अनेन निर्वृतचित्कथिता, इच्छाज्ञानक्रियास्तु भिन्नविषयाद्यपेक्षया स्फुटीभवन्ति, परावस्थायां पुनः पूर्णोऽहमित्येव प्रकाशते - तावत्प्रकाशत्वात् तदेव ज्ञानं, संरम्भरूपत्वात् सैव क्रिया, तत्स्वभावेन तदभ्युपगमादिच्छापि स्थितैवेत्याह तदिच्छा तावतीति, तावच्च स्वरूपं क्रियेति योज्यम् । भिन्नविषयाद्यभावेऽपि अभ्युपगमप्रकाशसंरम्भाणां सर्वदा प्रकाशमयत्वेनाविचलनात् इच्छादिव्यवहारयोग्यतैवेत्युक्तं सुसूक्ष्मेति सुसूक्ष्मस्वमेषितव्याद्यविभागेन विभागापरिकल्पनात् अत एव शक्तिसामरस्यं पूर्णचिन्मानप्रकाशतात्मस्वात् चिद्रूपाह्लादपरत्वं चोक्तमिति चिदभेदाख्यातिवैचित्र्यभिन्नघटदेवदत्तात्मकचेद्यवेदकावभासनं नामरूपं पूर्वापरीभूतावयवा क्रियेत्यर्थः ।


पं० ४ ख० पु० घटादीति पदद्वयं नास्ति, तथा निरिच्छा वेदनाकृतिरिति पाठान्तरं च ।


  1. अत्रैवेति क्रियायां
  2. इच्छापूर्वभाग औन्मुख्यम् ।
  3. विनेति-संविनिष्ठत्वाद्विषयव्यवस्थितीनामिति ।