पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८०
परात्रिंशिका

'यत इच्छति तज्ज्ञातुं कर्तुं वा सेच्छया क्रिया ।
तस्याः पूर्वापरौ भागौ कल्पनीयौ पुरा हि या ॥
तत्कर्मनिर्वृतिप्राप्तिरौन्मुख्यं तद्विकासिता ।
न चौन्मुख्य[१]प्रसङ्गेन शिवः स्थूलत्वभाक् कचित् ।

इत्यादि एतदागमसर्वस्वप्राणतयैव युक्तियुक्ततया हृदयंगमीकृतं, स एष[२] परमेश्वरो विस्मृजति


  1. अन्न स्फुटीकरणाथै निदर्शनेन शिवदृष्टावौन्मुख्यं साधितम् । यथा

    'गच्छतो निस्तरङ्गस्य जलस्यातितरङ्गिताम् ।
    आरम्भे दृष्टिमापात्य तदौन्मुख्यं हि गम्यते ॥
    व्रजतो मुष्टितां पाणे: पूर्वः कम्पस्तदेक्ष्यते ।
    बोधस्य स्वास्मनिष्ठस्य रचनां प्रति निर्वृतिः ॥
    तदास्था प्रविकासो यस्तदोन्मुख्यं प्रचक्षते ।
    किंचिदुच्छूनता सैव महद्भिः कैश्चिदिप्यते ॥
    तस्येच्छा कार्यतां याता यया सेच्छः प्रजायते ।
    औन्मुख्यस्य य आभोगः स्थूलः सेच्छा व्यवस्थिता ॥'

    इति ।

  2. स एपेति, शक्तिविसर्गयुक्तो विश्वं निर्मिणोतीति, यथोक्तम्

    'अस्यान्तर्विसिसृक्षासौ या प्रोक्ता कौलिकी परा ।
    सैव क्षोभवशादेति विसर्गात्मकतां ध्रुवम् ॥

    इति । तथा

    'कला सप्तदशी तस्मादमृताकाररूपिणी ।
    परापरस्वस्वरूपबिन्दुगत्या विसर्पिता ॥