पृष्ठम्:श्रीपरात्रिंशिका.pdf/२१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

एवानुभवः, भेदश्च स्थानादिकृत एव-श्रुत्येकप्राणत्वात् वर्णानां, किं वहुना वालोऽपि व्युत्पाद्यमानोऽन्तः तथारूपतया विमृशति भा- वजातं, विपर्ययेण संशयेनापि वा विमृशत्यवच्छेदं तावत्संवेदयत एव, स च वाग्विमर्शकृत एव, अत एव संवारविवाराल्पप्राणमहाप्रा-

। न हि दृष्टे नामानुपपत्तिरित्यर्थः । २ तथेति संजल्परूपतया । ३ मिथ्याज्ञानं विपर्ययः, एकस्मिन् धर्मिणि विरुद्धनानावमर्शः संशयः । ४ स एव प्राणो नाम वायुरूर्ध्वमाक्रामन् मूर्ध्नि प्रतिहतो निवृत्तो यदा कोष्टमभिहन्ति कोष्टेऽभिहन्यमाने मनाक् गलबिलस्य संवृतत्वात् संवारो वर्णधर्म उपजायते विवृतत्वाद्विवारः संवृतो गलबिले नादः, अव्यक्तश्च नादः विवृतश्वासे उपरिवर्ती तौ श्वासनादावनुप्रदानमित्याचक्षते - वर्णनिष्पत्तेरनु पश्चात् प्रदीयते इति अनुप्रदानम् । अन्ये तु ब्रुवते- अनुप्रदानमनुस्वानो घण्टानिनादवत् , यथा घण्टानिनादोऽनुस्वानमनुभवति तथा तत्र स्थानाभिघातजे ध्वनौ नादोऽनुप्रदीयते तदा नादध्वनिसंसर्गात् घोपो जायते, यदा श्वासोऽनुप्रदीयते तदा श्वासध्वनिसंसर्गादघोषः । महति वायौ महाप्राणः । अल्पे वायौ स्वल्पप्राणः । सिद्धान्तकौमुद्यां वर्णानां बाह्यत्वं साधितं, यथा- बाह्यप्रयत्ना अष्टौ इति महाभाष्ये, तद्यथा-विवारः संवारः श्वासो नादो घोषोऽधोषोऽल्पप्राणो महाप्राण २४