पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९४
परात्रिंशिका

दिश्यते, तत्रैव चासांकेतिके वाङ्महसि तथा खलु मायीयाः संकेताः पतन्ति यथा त एवामायीयासंकेतितमन्त्रतादात्म्यं प्रतिपद्यन्ते, तथा स्वरूपप्रतिपत्तिरेव हि तेषां वाचकताभावो नान्यः कश्चित् , अत्र स्फुटमभिज्ञानमभ्यासवशात् असांकेतिकतामापन्ने चिरतरपूर्ववृत्तगोशब्दपरामर्शः, तथैव संकेतकाले गोपरामर्शोऽपि अन्यामायीयासांकेतिकपरामर्शधामन्येव निप-


चतुर्दशस्वरोपेता बिन्दुत्रयविभूपिता ।
कलामण्डलमास्थाय शक्तिरूपं महेश्वरि
ककारादिक्षकारान्ता वर्णास्तु शक्तिरूपिणः ।
व्यञ्जनत्वात्सदानन्दोच्चारणं सहते यतः ॥
उच्चारे स्वरसंभिन्नास्ततो देवि न संशयः ।
पञ्चाशद्वर्णभेदेन शब्दाख्यं वस्तु सुव्रते ॥
अकारः प्रथमं देवि क्षकारोऽन्त्यस्ततः परम् ।
अक्षमालेति विख्याता मातृकावर्णरूपिणी ।।
शब्दब्रह्मस्वरूपेयं शब्दातीतं तु जप्यते ।
शब्दातीतं परं धाम गणनारहितं सदा ॥
आरमस्वरूपं जानीहि ईशस्तु परमेश्वरः ।'

इति ।

 १ अन्यथा हि वाच्येभ्यः को वाचकस्य विशेष इति तात्पर्यम् ।