पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

तति, यावत् बालस्यापि जन्मान्तरानुसरणेऽपि चित्स्वभावस्यादौ स्थितैवासांकेतिकी सत्ता- अन्यथानवस्थानात्, एवमेव खलु संकेतग्रहणोपपत्तिः नान्यथा, इतीश्वरप्रत्यभिज्ञाटीकायामपि श्रीमदुत्पलदेवपादैर्निर्णीतम् , अत्र चानुप्रवेशयुक्तिः


' पश्यत्यन्यच्छृणोत्यन्यत्करोत्यन्यच्च जल्पति ।
चिन्तयत्यन्यदा भुङ्क्ते तत्र सांकेतिकी स्थितिः ॥ '


इति भट्टारकश्रीश्रीकण्ठपादाः

' मनोऽप्यन्यत्र निक्षितं चक्षुरन्यत्र पातितम् '


इत्याद्यप्यवोचन्, तदप्यसांकेतिकमन्त्रवपुः स्ववीजमनुधावदनुत्तरपदपर्यवसायि भवति, तदप्यनुत्तरपदं सत्तथाविधानन्तसमुदायवैचित्र्यसंरम्भसारं विसर्गदृष्टया प्रसरदेव विसर्गस्यैव हकलापर्यन्ततया प्रसरात्, तस्या अपि हकारा-


 १ तदिति सांकेतिकमपि, संकेतस्य हि पारमार्थिकतयाऽसंकेतिकमेवोत्पत्तिस्थानम् इति।