पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
परात्रिंशिका


ख्यशक्तिकुण्डलिन्याः स्वरूपाभेदात्मकबिन्दुस्वरूपधारणा-अनुत्तरपद एव संक्रमात् स्वरूप एव विश्राम्यति, एकाक्षरसंवित् किल स्वरूपत एव देशकालकलनोपादानादिनैरपेक्ष्येणैव प्रागुक्तपूर्णतत्त्वतानयेन झगिति विसर्गभूमौ धावति,


  १ यथोक्तं देवीस्तुतौ श्रीपञ्चस्तव्यां प्रथमे स्तवे

'या मात्रा त्रपुसीलतातनुलसत्तन्तूस्थितिस्पर्धिनी ।
 वाग्बीजे प्रथमे स्थिता तव सदा तां मन्महे ते वयम् ।
शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमा
 ज्ञात्वेत्थं न पुनः स्पृशन्ति जननीगर्भेऽर्भकत्वं नराः ॥'

इति । अयमत्र भावः - मात्रेत्यनुस्वानरूपा कुण्डलिन्यपि विसतन्त्वाभाध्येयेति, तथैव चानवधानतायां विश्वजननेति, शक्तिपातानुविद्धेन तु ज्ञातस्वरूपा मोक्षदेत्याह ज्ञात्वेत्थमिति, तथा मात्रा सूक्ष्मतमानुत्तररूपा कौलिकीशक्तियोगात् प्रसरन्ती हकाराख्येति, अथ वा तामधिष्ठाय शक्तिः कुण्डलिनी विश्वजननव्यापारबद्धोद्यमेति मन्महे ।

 २ एका चासावक्षरा चासौ संविदित्येकाक्षरसंवित् कर्मधारय इति पुंवद्भावः, किलेत्यविप्रतिपत्तौ, व्यक्तिप्रतिषेधे जात्यनुगम इति न्यायेन देशकालकलनापि तन्मय्येवेति, एका सर्वव्यापीत्यर्थः ।

 ३ यदुक्तं पूर्णतत्वेति, पूर्णत्वं हि एतदेव - यद्देशकालादियोगित्वम् । यदुक्तं

'न तैर्जातं तत्स्वरूपं ये त्वेवं मन्वते बुधाः ।
देशकालाद्यवच्छेदरहितं परमं पदम् ।'

इति । तथा च हरिणा


पं०१ ग. पु० स्वरूपद्वारेणेति पाठः । पं०४ ग० पु. कलनोपधानेति पाठः ।