पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

विसर्गभूमिश्लेष एव आनन्देच्छेशनोन्मेषतत्प्रमृतितद्वैचित्र्यक्रियाशक्तिमयानाम् आकारादीनां स्थितिः, स एव विसर्गः स्वसत्तानान्तरीयकतयैव तथैवातिभरितया सत्तया प्रसरन्द्रागित्येव हकलामयः संपद्यते, हकलामयतासंपत्तिरेव वस्तुतः कादिसत्तानन्ततत्त्वजालस्थितिः, हकलैव च पुनरपि बिन्दावनुप्रविशन्त्यनुत्तरपद एव पर्यवस्यति - इत्येकैवाद्वयपरिपूर्णरूपा संवेदनसत्ताभट्टारिकेयं परा भगवती परमेश्वरी, न त्वत्र क्रमादियोगः कश्चित्, तदे-


'दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ॥'

इति । विसर्गभूमाविति शांभवविसर्गे।

 १ स एवेति-शक्तिविसर्गः ।
 २ यदुक्तम्

'विसर्ग एवमुत्कृष्ट आश्यानत्वमुपागतः।
हंसः प्राणो व्यञ्जनं च स्पर्शश्च परिभाष्यते ॥'

इति ।

 ३ यदुक्तं तन्त्रालोके

'पाकादिस्तु क्रिया कालपरिच्छेदारक्रमोचिता ।
मतान्त्यक्षणवन्ध्यापि न पाकरवं प्रपद्यते'

इति । ईश्वरप्रत्यभिज्ञायाम्