पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९८
परात्रिंशिका

तदुच्यते 'अहमिति' विपर्यये तु संहृतौ 'अहं' इति, द्वैधमपि च इयमेकैव वस्तुतः संवित्, एवमेष स सर्वत्र घटसुखादिप्रकाशेऽपि स्वात्मविश्रान्तिसर्वस्वभूतोऽहंभावः, यथोक्तं

'प्रकाशस्यात्मविश्रान्तिरहंभावो हि कीर्तितः ।'

इति । स च वस्तुतः सर्वात्मकः-समनन्तरनिर्णीतनीत्या, इति पराभट्टारिकानुविद्धो भैरवात्मक एव, यथोक्तं मयैव स्तोत्रे

'विश्वत्र भावपटले परिजृम्भमाण-
 विच्छेदशून्यपरमार्थचमत्कृतिर्या ।
तां पूर्णवृत्त्यहमिति प्रथनस्वभावां
 स्वात्मस्थितिं स्वरसतः प्रणमामि देवीम् ॥'

इति । एष एव श्रीवामनविरचिते अद्वयसंपत्तिवार्तिके उपदेशनयो बोद्धव्यः, तेन स्थितमेतत्-अकार एव सर्वाढ्यो यत्रापि हर्षघटनी-


'सक्रमत्वं च लौकिक्याः क्रियायाः कालशक्तितः ।
घटते न तु शाश्वत्याः प्राभव्याः स्यात्प्रभोरिव ॥"

इति।


 पं. १५ क. ग. पु. सर्वत्राद्य इति पाठः ।