पृष्ठम्:श्रीपरात्रिंशिका.pdf/२२९

पुटमेतत् सुपुष्टितम्
२०१
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता

कृत्यार्धार्धभागेन प्रलयोदययोर्वहिरपि पञ्चदश- दिनात्मककालरूपतां तन्वते, इति -तिथयः कलाश्चोक्ताः, षोडश्येव च कला विसर्गात्मा विश्लिष्यन्ती, सप्तदशी कला श्रीलाद्यादिशा- स्त्रेषु निरूपिता

'सा तु सप्तदशी देवी हकारार्धार्धरूपिणी ।'

इति । विसर्गस्य हकारार्धत्वात् ततोऽपि विश्लेष- स्यार्धत्वादिति निरवयवस्यैकवर्णस्य कथमेषा विकल्पना? इति चेत् - अस्मत्पक्षे सर्वमेवानव- यवं चिन्मयैकावभासनानतिरेकात्, तथापि च स्वातन्त्र्यादेव अवयवावभासेऽपि अनवयवतैवान- पायिनी, तथा इहापि अस्तु को विरोधः, एवमेव वर्णोपपत्तिः, अपरथा दन्त्योष्ठ्यकण्ठ्यतालव्या- दिवर्णेषु क्रमप्रसारी पवन आघ्रातकः कथं कण्ठं हत्वा ताल्वाहन्ति - इति युगपदापूरकत्वेऽपि समानकालता स्यात्, यत्र कण्ठघातोत्थं रूपं तत् तु ताल्वाहतिजं सर्वत्र संभवति, श्वासना- दयोश्च पश्चात्प्रतीयमानतयानुप्रदानत्वमुच्यते,  26