पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३१

पुटमेतत् सुपुष्टितम्
२०३
श्रीमदभिनवगुप्ताचार्यकृतव्याख्योपेता


दौ केवला वा योनिवर्णनिविष्टा वा तिर्यक्तत्तदहर्जातादिष्वपि प्रथमत एवापतन्तः संकेतविघ्नादिनैरपेक्ष्येणैव संविदासन्नवर्तित्वात्स्वरकाक्वादिरूपतामश्नुवानाः प्रकाशयन्ति इत्यर्थधर्मा उदात्तादय उपदिष्टाः, तेषामेव चि-


 १ उदात्तानुदात्तस्वरिताः इति । तत्र यदा सर्वाङ्गानुसारी प्रयत्नस्तीव्रो भवति तदा गात्रस्य निग्रहः कण्ठविवरस्य चाणुत्वं स्वरस्य च वायोस्तीव्रगतित्वाद्रौक्ष्यं भवति तमुदात्तमाचक्षते, यदा तु मन्दप्रयत्नो भवति तदा गात्रस्य स्रंसनं कण्ठविवरस्य महत्वं स्वरस्य च वायोर्मन्दगतित्वात्स्निग्धता भवति तमनुदात्तमाचक्षते, उदात्तानुदात्तस्वरितसंनिकर्षात्स्वर इत्येवं लक्षणा बाह्याः प्रयत्नाः । स्रंसनमिति शैथिल्यं स्निग्धता मृदुता कण्ठरन्ध्रस्य महत्वादेव शीघ्रं वायुर्निष्क्रामन् जलावयवान्न शोषयति च अतः स्वरस्य स्निग्धता भवति । कण्ठरन्ध्रस्याणुत्वादेव वायुः शनैर्निष्क्रामन् जलावयवान् शोषयतीति रूक्षता- अस्निग्धता भवति, महाभाष्ये
 'आयासो दारुण्यमणुता स्वस्येत्युच्चैः करणानि शब्दस्य' आयासो गात्राणां दारुण्यं दारुणता स्वरस्य रूक्षता खस्य कण्ठविवरस्य संवृतता।
 'अथ नीचैः करणानि शब्दस्य अन्ववसर्गो मार्दवमुरुता खस्येति' अन्ववसर्गो गात्राणां शिथिलता स्वरस्य मार्दवं महत्ता कण्ठविवरस्येति, अभ्याससमधिगम्यश्चासौ स्वरविशेषः षड्जादिवदिति श्रीकय्यटः । पाणिनिस्तु उच्चैरुदात्तः, नीचैरनुदात्तः, समाहारः स्वरित इत्याह ।