पृष्ठम्:श्रीपरात्रिंशिका.pdf/२३४

पुटमेतत् सुपुष्टितम्
२०४
परात्रिंशिका

त्तवृत्त्यनुभावकषड्जादिस्वरूपत्वात्, एवं सर्वत्र संवेदने सर्वा एवैता वैचित्र्यचर्याचारचतुराः शक्तय आदिक्षान्ताः समापतन्त्योऽहमहमिकया अक्रममेव भासमानाः कलनामयतयैव ज्ञानक्रमसंक्रमणमेव दिश्यमानं देशमुत्थापयन्ति, अन्यथा 'मेरुपरमाण्वोरविशेषात्' इति न्यायेन गर्भीकृतदेशात्मकवैचित्र्यक्रियावैचित्र्यात्मकं क्रमरूपं कालं बहिर्योजनयोल्लासयन्त्यः स्वात्मनि


 १ यदुक्तम्  अहमहमिका तु सा स्यात्परस्परं यो भवत्यहंकारः ॥ इति कोशे।

 २ यदाहुः- क्रमेणाक्रमेण भावानां परिच्छित्तिः कालः, न चैतन्मन्तव्यं-संविल्लग्ना एव भावा अवभासन्ते तत् कथं तदनुपक्तस्य भावजातस्य कालयोग इति परमेश्वरे एव क्रमाक्रमस्यापि अन्तर्भाव इति । ननु यद्येवं तर्हि परमेश्वरे कालयोगः स्यात् ? न - इति मन्महे, कुतः तद्भासनं च देवस्य काली नाम शक्तिः यदुक्तं 'संविदेव प्रमेयेभ्यो विभक्तं रूपं गृह्णाति, अवच्छेदयोगाद्वेद्यतां यान्ती नभः ततः स्वातन्त्र्यात् मेये स्वीकारौत्सुक्येन निपतन्ती क्रियाशक्तिः, तत्र प्राच्यभागे कालाध्वा, उत्तरे तु देशाध्वेति ।' यदुक्तमीश्वरप्रत्यभिज्ञायाम्

  'मूर्तिवैचित्र्यतो देशक्रममाभासयत्यसौ ।

 क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥' इति ।


  पं. ८ ख० पु. रूपं कार्यमिति पाठः ।